Durga Raksha Kavach mantra in Hindi | दुर्गा रक्षा कवच

मां दुर्गा जगत जननी जगदंबा वही नारायणी है वही ब्रह्म स्वरूप है वही हमारी माता जगत की माता मां जननी मां दुर्गा है हम सच्चे मन से उनकी पूजा करे स्तुति करें तो हमें समस्त दुख दर्द ओ से रक्षा करती है सुरक्षा देती है माता दुर्गा की सुरक्षा मंत्र की सही उच्चारण के बारे में आज लिखा गया है जिसकी श्रुति करने से माता दुर्गे की अनेक सारे कृपा और लाभ मिलते हैं

Maa Durga, the mother of the world, she is the form of Brahma, Maa Durga, if we worship her with a true heart and praise her, she protects us from all sorrows and pains. Today it has been written about the correct pronunciation

Durga Raksha mantra

रक्ष रक्ष रक्ष रक्ष रक्ष रक्ष रक्ष मां

रक्ष रक्ष महादेवि दुर्गे दुर्गति नाशिनि ।

मां भक्त मनुरक्तं व शत्रुग्रस्तं कृपामयि ॥ 1 ॥

विष्णुमाये महाभागे नारायणि सनातनि ।

ब्रह्म स्वरूपे परमे नित्यानन्द स्वरूपिणी ॥ 2॥

त्वं च ब्रह्मादि देवा नामम्बिके जगदम्बिके ।

त्वं साकारे च गुणतो निराकारे च निर्गुणात् ॥ 3 ॥

मायया पुरुषस्त्वं च मायया प्रकृतिः स्वयम् ।

तयो: परं ब्रह्म परं त्वं बिभर्षि सनातनि ॥ 4 ॥

वेदानां जननी त्वं च सावित्री च परात्परा ।

वैकुण्ठे च महालक्ष्मीः सर्वसम्पत्स्वरूपिणी ॥ 5 ॥

मर्त्यलक्ष्मीच क्षीरोदे कामिनी शेषशायिनः ।

स्वर्गेषु स्वर्गलक्ष्मीस्त्वं राजलक्ष्मीश्च भूतले || 6 ||

नागादिलक्ष्मीः पाताले गृहेषु गृहदेवता ।

सर्व सस्य स्वरूपा त्वं सर्वेश्वर्याविधायिनी ॥ 7॥

रागाधिष्ठातृदेवी त्वं ब्रह्मणश्च सरस्वती ।

प्राणानामधिदेवी त्वं कृष्णस्य परमात्मनः ॥ 8॥

गोलोके च स्वयं राधा श्रीकृष्णस्यैव वक्षसि ।

गोलोकाधिष्ठाता देवी वृन्दा वन वने वने ॥ 9॥

श्रीरासमण्डले रम्या वृन्दावनविनोदिनी ।

शतशृङ्गाधिदेवी त्वं नाम्ना चित्रावलीति च ॥ 10 ॥

दक्षकन्या कुत्र कल्पे कुत्रकल्पे च शैलजा ।

देवमाता दितिस्त्वं च सर्वाधारा वसुन्धरा ॥ 11 ॥

त्वमेव गङ्गा तुलसी त्वं च स्वाहा स्वधा सती ।

त्वदं शां शां शकलया सर्वदेवादियोषितः ॥ 12 ॥

स्त्रीरूपं चापि पुरुषं देवि त्वं च नपुंसकम् ।

वृक्षाणां वृक्षरूपा त्वं सृष्टौ चाङ्कुर रूपिणी ॥ 13 ॥

वह्नौ च दाहिका शक्ति र्जले शैत्यस्वरूपिणी ।

सूर्ये तेजस्वरूपा च प्रभारूपा च सन्ततम् ॥ 14 ॥

गन्धरूपा च भूमौ च आकाशे शब्द रूपिणी ।

शोभास्वरूपा चन्द्रे च पद्मसङ्घे च निश्चितम् ॥ 15 ॥

सृष्टी सृष्टिस्वरूपा च पालचे परिपालिका |

महामारी च संहारे जले च जलरूपिणी ॥ 16 ॥

क्षुत् त्वं दया त्वं निद्रा त्वं तृष्णा त्वं बुद्धिरूपिणी ।

तुष्टिस्त्वं चपि पुष्टिस्त्वं श्रद्धा त्वं च क्षमा स्वयम् ॥ 17॥

सर्व शक्ति स्वरूपा त्वं सर्व सम्पत्प्रदायिनी ।

वेदेऽनिर्वचनीया त्वं त्वां न जानाति कश्चन ॥ 18 ॥

स्वयं विधाता शक्तो न न च विष्णुः सनातनः 

किं स्तौमि पञ्चवक्त्रेण रणत्रस्तो महेश्वरि 

कृपां कुरु महामाये मम शत्रुक्षयं कुरु


Durga Raksha Kavach Mantra PDF file Download


Read More