Ganesh Ji’s Mantra: The Powerful Sound That Removes All Obstacles

introduction:-
In this blog post, we will explore some of the most popular and powerful mantras of Ganesh Ji. We will also provide their meanings, benefits, and methods of chanting. We will present the mantras in both Sanskrit and Hindi languages, along with their transliterations and translations. We hope that this post will help you to connect with Ganesh Ji and experience his grace in your life.

Types of Ganesh Ji Ki Mantras

The Ganesh Ji Ki Aarti is a beautiful way to celebrate the Lord, and it's accompanied by a range of special mantras. While some pieces of the Aarti are widely known and used, there are also many lesser-known mantras that can be used to help deepen your practice.
One of the ways to invoke the blessings of Ganesh Ji is to chant his mantras. Mantras are sacred sounds or words that have spiritual power and significance. They are used to worship, praise, and meditate on various aspects of the divine. By chanting Ganesh Ji’s mantras, one can overcome difficulties, achieve goals, gain knowledge, and attain happiness.


a picture of lord ganesh with yajna kund (fire pit)

आचमन मंत्र -

( केशवाय नमः | नारायणाय नमः | माधवाय नमः )

तत्पश्चात् मन्त्र -

ॐ पवित्रेस्थो वैष्णव्यौ सवितुर्वः प्रसव उत्पुनाम्यच्छिद्रेण

पवित्रेण सूर्यस्य रश्मिभिः ।

तस्य ते पवित्रपते पवित्रपूतस्य यत्कामः पुने तच्छकेयम् ।

पवित्रीकरण -

ॐ अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा ।

 यः स्मरेत पुण्डरीकाक्षं स बाह्याभ्यन्तरः शुचिः ।।

ॐ पुण्डरीकाक्षः पुनातु, ॐ पुण्डरीकाक्षः पुनातु,

ॐ पुण्डरीकाक्षः पुनातु

शिखाबंधन -

चिद्रूपिणि! महामाये ! दिव्यतेजः समन्विते !

तिष्ठ देवि ! शिखामध्ये तेजोवृद्धिं कुरुष्व मे

आसन शुद्धि विनियोग-

ॐ पृथ्वीति मन्त्रस्य मेरु पृष्ठ ऋषिः सुतलं छन्दः

कूर्मो देवता आसन पवित्रकरणे विनियोगः ।

मंत्र - ॐ पृथ्वि त्वया धृतालोका देवि त्वं विष्णुना धृता ।

त्वं च धारय मां देवि पवित्रं कुरु चासनम् ॥

तिलकधारण -

ॐ स्वस्ति न इंद्रो वृद्धश्रवाः | स्वस्ति नः पूषा विश्ववेदाः ।

स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः | स्वस्ति नो बृहस्पतिर्दधातु ॥

आधारशक्ति पूजन -

ॐ पृथ्वि त्वया धृतालोका देवि त्वं विष्णुना धृता ।

त्वं च धारय मां देवि पवित्रं कुरु चासनम् ॥

ॐ आधार शक्तये पृथिव्यै नमः, ॐ कमलासनाय नमः,

ॐ वसुन्धरायै नमः

दिग् रक्षण मंत्र -

यदत्र संस्थितं भूतं स्थानमाश्रित्य सर्वदा ॥

स्थानं त्यक्त्वा तु तत्सर्वं यत्रस्थं तत्र गच्छतु ।।

अपसर्पन्तु ते भूता ये भूता भूमिसंस्थिताः

ये भूता विघ्नकर्तारस्ते नश्यन्तु शिवाज्ञया ।

अपाक्रामन्तु भूतानि पिशाचाः सर्वतो दिशम् ॥

सर्वेषामविरोधेन पूजाकर्म समारभेत् ॥

धूपपात्र पूजनम्

गन्धर्व देवाय धूपपात्राय नमः

सर्वोपचारार्थे गन्धाक्षत पुष्पाणि समर्पयामि ।

दीप पूजनम्-

ॐ भी दीप देवरूपस्त्वं कर्मसाक्षी ह्यविघ्नकृत्

यावत्कर्मसमाप्तिः स्याद्तावत्त्वं सुस्थिरो भव ॥

शंखपूजनम्-

त्वं पुरासागरोत्पन्नो विष्णुना विधृतः करे

 निर्मितः सर्वदेवैश्च पाञ्चजन्य नमोऽस्तु ते

भूर्भुवः स्वः शङ्खस्थदेवाय नमः

घण्टा पूजनम्

आगमार्थं तु देवानां गमनार्थं च रक्षसाम् ।

 कुरु घण्टे वरं नादं देवतास्थान सन्निधौ ॥

ॐ भूर्भुवः स्वः घण्टस्थिते गरुडाय नमः ।

ganesh mantra 

ganesh mantra in hindi and sanskrit
you must read it:-
Lord Hanuman ji ki 12 naam

स्वस्तिवाचन

हरिः ॐ! | आ नो भद्राः क्रतवो यन्तु

विश्वतोऽदब्धासो अपरीतास उद्भिदः ।

देवा नो यथा सदमिद् वृधे

अन्नप्रायुवो रक्षितारो दिवे दिवे ॥

देवानां भद्रा सुमतिर्ऋजूयतां

देवाना गुं रातिरभि नो निवर्तताम् ।

देवाना गुं सख्यमुपसेदिमा वयं

देवा न आयुः प्रतिरन्तु जीवसे ।।

तान्पूर्वया निविदा हूमहे वयं भगं

मित्रमदितिं दक्षमस्त्रिधम् ।

अर्यमणं वरुण गुं सोममश्विना

सरस्वती नः सुभगा मयस्करत् ॥

तन्नो वातो मयोभुवातु भेषजं तन्माता | पृथिवी तत्पिता द्यौः

तद् ग्रावाणः सोमसुतो मयोभुवस्तदश्विना | शृणुतं धिष्ण्या युवम्

तमीशानं जगतस्तस्थुषस्पतिं | धियञ्जिन्वमवसे हूमहे वयम् ।

पूषा नो यथा वेदसामसद् वृधे | रक्षिता पायुरदब्धः स्वस्तये ॥

स्वस्ति न इन्द्रो वृद्धश्रवाः | स्वस्ति नः पूषा विश्ववेदाः ।

स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः | स्वस्ति नो बृहस्पतिर्दधातु ॥

पृषदश्वा मरुतः पृश्निमातरः | शुभं यावानो विदथेषु जग्मयः

अग्निजिह्वा मनवः सूरचक्षसो | विश्वे नो देवा अवसागमन्निह

भद्रं कर्णेभिः शृणुयाम देवा | भद्रं पश्येमाक्षभिर्यजत्राः ।

स्थिरैरङ्गैस्तुष्टुवा गुं सस्तनू | भिर्व्यशेमहि देवहितं यदायुः ।।

शतमिन्नु शरदो अन्ति देवा यत्रा नश्चक्रा जरसं तनूनाम् ।

पुत्रासो यत्र पितरो भवन्ति मा नो मध्या रीरिषतायुर्गन्तोः ।।

अदितिर्द्यौरदितिरन्तरिक्षमदितिर्माता स पिता स पुत्रः ।

विश्वेदेवा अदितिः पञ्चजना अदितिर्जातमदितिर्जनित्वम् ।।

द्यौः शान्तिरन्तरिक्ष गुं शान्तिः

पृथिवी शान्तिरापः शान्तिरोषधयः शान्तिः ।

वनस्पतयः शान्तिर्विश्वे देवाः

शान्तिर्ब्रह्म शान्तिः सर्व गुं शान्तिः

शान्तिरेव शान्तिः सा मा शान्तिरेधि ॥

यतो यतः समीहसे ततो नो अभयं कुरु ।

शं नः कुरु प्रजाभ्योऽभयं नः पशुभ्यः । ।

सुशान्तिर्भवतु ॥

श्रीमन्महागणाधिपतये नमः । लक्ष्मीनारायणाभ्यां नमः ।

उमा महेश्वराभ्यां नमः । वाणीहिरण्यगर्भाभ्यां नमः ।

शचीपुरन्दराभ्यां नमः मातृपितृचरणकमलेभ्यो नमः

इष्टदेवताभ्यो नमः कुलदेवताभ्यो नमः ग्रामदेवताभ्यो नमः

वास्तुदेवताभ्यो नमः | स्थानदेवताभ्यो नमः |

सर्वेभ्यो देवेभ्यो नमः । सर्वेभ्यो ब्राह्मणेभ्यो नमः ।

ॐ सिद्धि बुद्धिसहिताय श्रीमन्महागणाधिपतये नमः ।

सुमुखश्चैकदन्तश्च कपिलो गजकर्णकः । लम्बोदरश्च विकटो विघ्ननाशो विनायकः ॥

धूम्रकेतुर्गणाध्यक्षो भालचन्द्रो गजाननः । द्वादशैतानि नामानि यः पठेच्छृणुयादपि ॥

विद्यारम्भे विवाहे च प्रवेशे निर्गमे तथा । सङ्ग्रामे संकटे चैव विघ्नस्तस्य न जायते ॥

शुक्लाम्बरधरं देवं शशिवर्णं चतुर्भुजम् । प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥

अभीप्सितार्थसिद्ध्यर्थं पूजितो यः सुरासुरैः सर्वविघ्नहरस्तस्मै गणाधिपतये नमः ॥

सर्वमङ्गलमाङ्गल्ये ! शिवे ! सर्वार्थसाधिके । शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तु ते ॥

सर्वदा सर्वकार्येषु नास्ति तेषाममङ्गलम् । येषां हृदिस्थो भगवान् मङ्गलायतनो हरिः ॥

तदेव लग्नं सुदिनं तदेव ताराबलं चन्द्रबलं तदेव । विद्याबलं देवबलं तदेव लक्ष्मीपते तेऽङ्गियुगं स्मरामि लाभस्तेषां जयस्तेषां कुतस्तेषां पराजयः । येषामिन्दीवरश्यामो हृदयस्थो जनार्दनः ॥

यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः ।

तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम ॥ अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते ।

तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥ स्मृतेः सकलकल्याणं भाजनं यत्र जायते ।

पुरुषं तमजं नित्यं व्रजामि शरणं हरिम् ॥

सर्वेष्वारम्भकार्येषु त्रयस्त्रिभुवनेश्वराः ।

देवा दिशन्तु नः सिद्धिं ब्रह्मेशानजनार्दनाः ॥ विश्वेशं माधवं ढुण्डिं दण्डपाणिं च भैरवम् ।

वन्दे काशीं गुहां गङ्गां भवानीं मणिकर्णिकाम् ॥ वक्रतुण्ड महाकाय कोटिसूर्यसमप्रभ ।

निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥ ॐ गणपतये नमः

संकल्प

ॐ विष्णुर्विष्णुर्विष्णुः श्रीमद्भगवतो महापुरुषस्य विष्णोराज्ञया

प्रवर्तमानस्य ब्रह्मणोऽह्नि द्वितीयपरार्धे श्रीश्वेतवाराहकल्पे

वैवस्वतमन्वन्तरे अष्टाविंशतितमे कलियुगे कलिप्रथमचरणे

जम्बूद्वीपे भारतवर्षे आर्यावर्तैकदेशे अमुक नाम्नी नगरे / ग्रामे वा

अमुक नाम्नी संवत्सरे अमुक मासे अमुक पक्षे अमुक तिथौ अमुक वासरे

अमुक गोत्रोत्पनोहं अमुक शर्माहं / वर्मा / गुप्तः / दासस्य

अहं श्रुतिस्मृतिपुराणोक्तफलप्राप्त्यर्थ मम सकुटुम्बस्य

सपरिवारस्य क्षेमस्थैर्यायुरारोग्यैश्वर्याभिवृद्ध्यर्थआधिभौतिकाधि

दैविकाध्यात्मिकत्रिविधतापशमनार्थं धर्मार्थकाममोक्षफलप्राप्त्यर्थं

नित्यकल्याणलाभाय भगवत्प्रीत्यर्थ गणपति पूजनं करिष्ये ।

हाथ में पुष्प अक्षत लेकर भगवान् गणेशका ध्यान करे-

गजाननं भूतगणादिसेवितं

कपित्थजम्बूफलचारुभक्षणम् । उमासुतं शोकविनाशकारकं

नमामि विघ्नेश्वरपादपङ्कजम् ॥

भगवान् गणेशका आवाहन -

गणानां त्वा गणपति गुं हवामहे प्रियाणां त्वा प्रियपति गुं हवामहे

निधीनां त्वा निधिपति गुं हवामहे वसो मम

आहमजानि गर्भधमा त्वमजासि गर्भधम्

एह्येहि हेरम्ब महेशपुत्र समस्तविघ्नौघविनाशदक्ष

माङ्गल्यपूजाप्रथमप्रधान गृहाण पूजां भगवन् नमस्ते

भूर्भुवः स्वः सिद्धिबुद्धिसहिताय गणपतये नमः,

गणपतिमावाहयामि स्थापयामि, पूजयामि

ganesh mantra 

ganesh mantra in hindi and sanskrit'
You can read also

प्रतिष्ठा -

ॐ मनो जूतिर्जुषतामाज्यस्य बृहस्पतिर्यज्ञमिमं तनोत्वरिष्टं यज्ञ गुं समिमं दधातु ।

विश्वे देवास इह मादयन्तामो ३ प्रतिष्ठ ॥

अस्यै प्राणाः प्रतिष्ठन्तु अस्यै प्राणाः क्षरन्तु च ।

अस्यै देवत्वमर्चायै मामहेति च कश्चन ॥ ॐ

भूर्भुवः स्वः गणपते नमः सुप्रतिष्ठिते वरदे भवेताम् ।

आसन

ॐ पुरुष एवेद गुं सर्वं यद्भूतं यच्च भाव्यम् ।

उतामृतत्वस्येशानी यदन्नेनातिरोहति । ।

पाद्य-

ॐ एतावानस्य महिमातो ज्यायाँश्च पूरुषः ।

पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि ॥

अर्घ्य -

ॐ त्रिपादूर्ध्व उदैत्पुरुषः पादोऽस्येहाभवत् पुनः ।

ततो विष्वङ् व्यक्रामत्साशनानशने अभि ॥

दुग्ध स्नान –

 कामधेनुसमुद्भूतं सर्वेषां जीवनं परम् ।

पावनं यज्ञहेतुश्च पयः स्नानार्थमर्पितम् ॥

भूर्भुवः स्वः गणपतये नमः, पयः स्नानं समर्पयामि ।

दधि स्नान -

पयसस्तु समुद्भूतं मधुरागम्लं शशिप्रभम् ।

 दध्यानीतं मया देव स्नानार्थं प्रतिगृह्यताम् ॥

ॐ भूर्भुवः स्वः गणपतये नमः, दधि स्नानं समर्पयामि ।

घृत नान

नवनीतसमुत्पन्नं सर्वसंतोषकारकम् ।

घृतं तुभ्यं प्रदास्यामि स्रानार्थं प्रतिगृह्यताम् ॥

ॐ भूर्भुवः स्वः गणपतये नमः, घृतस्नानं समर्पयामि ।

मधु स्नान

पुष्परेणुसमुद्भूतं सुस्वादु मधुरं मधु ।

तेजः पुष्टिकरं दिव्यं स्नानार्थं प्रतिगृह्यताम् ॥

ॐ भूर्भुवः स्वः गणपतये नमः, मधुस्रानं समर्पयामि ।

शर्करा स्नान -

इक्षुरससमुद्भूतां शर्करां पुष्टिदां शुभाम् ।

मलापहारिका दिव्यां नानार्थं प्रतिगृह्यताम् ॥

ॐ भूर्भुवः स्वः गणपतये नमः, शर्करा स्रानं समर्पयामि ।

पंचामृत स्नान

पञ्चामृतं मयानीतं पयो दधि घृतं मधु ।

शर्करया समायुक्तं स्नानार्थं प्रतिगृह्यताम् ॥

ॐ भूर्भुवः स्वः गणपतये नमः, पंचामृत स्नानं समर्पयामि ।

गंधोदक स्नान

मलयाचलसम्भूतचन्दनेन विनिःसृतम् ।

इदं गन्धोदकस्त्रानं कुङ्कुमाक्तं च गृह्यताम् ॥

ॐ भूर्भुवः स्वः गणपतये नमः, गंधोदक स्नानं समर्पयामि ।

शुद्ध जल स्नान

गंगे च यमुने चैव गोदावरी सरस्वती ।

नर्मदे सिन्धुकावेरी स्नानार्थं प्रतिगृह्यताम् ॥

ॐ भूर्भुवः स्वः गणपतये नमः, शुद्धोदक स्रानं समर्पयामि

वस्त्र -

शीतवातोष्णसंत्राणं लज्जाया रक्षणं परम्

देहालङ्करणं वस्त्रमतः शान्तिं प्रयच्छ मे

उपवस्त्र-

यस्याभावेन शास्त्रोक्तं कर्म किञ्चिन्न सिध्यति ।

उपवस्त्रं प्रयच्छामि सर्वकर्मोपकारकम् ॥

यज्ञोपवीत -

नवभिस्तन्तुभिर्युक्तं त्रिगुणं देवतामयम् ।

उपवीतं मया दत्तं गृहाण परमेश्वर । ।

चंदन - श्रीखण्डं चन्दनं दिव्यं गन्धाढ्यं सुमनोहरम् ।

विलेपनं सुरश्रेष्ठ ! चन्दनं प्रतिगृह्यताम् ॥

अक्षत - अक्षताश्च सुरश्रेष्ठ कुङ्कुमाक्ताः सुशोभिताः ।

मया निवेदिता भक्त्या गृहाण परमेश्वर ॥

पुष्प, पुष्पमाला - माल्यादीनि सुगन्धीनि मालत्यादीनि वै प्रभोः ।

मयाहृतानि पुष्पाणि पूजार्थं प्रतिगृह्यताम् ॥

दूर्वाङ्कुरान्

दूर्वाङ्कुरान् सुहरितानमृतान् मङ्गलप्रदान् ।

आनीतांस्तव पूजार्थं गृहाण गणनायक ॥

सिंदूर -

सिन्दूरं शोभनं रक्तं सौभाग्यं सुखवर्धनम् ।

शुभदं कामदं चैव सिन्दूरं प्रतिगृह्यताम् ॥

अबीर गुलाल -

अबीरं च गुलालं च हरिद्रादिसमन्वितम् ।

नाना परिमलं द्रव्यं गृहाण परमेश्वर ॥

सुगन्धित द्रव्य -

दिव्यगन्धसमायुक्तं महापरिमलाद्भुतम् ।

गन्धद्रव्यमिदं भक्त्या दत्तं वै परिगृह्यताम् ॥

धूप -

वनस्पतिरसोद्भूतो गन्धाढ्यो गन्ध उत्तमः ।

आत्रेयः सर्वदेवानां धूपोऽयं प्रतिगृह्यताम् ॥

दीप -

भक्त्या दीपं प्रयच्छामि देवाय परमात्मने ।

त्राहि मां निरयाद् घोराद् दीपज्योतिर्नमोऽस्तु ते ॥

नैवेद्य

शर्कराखण्डखाद्यानि दधिक्षीरघृतानि च ।

आहारं भक्ष्यभोज्यं च नैवेद्यं प्रतिगृह्यताम् ॥

फल -

इदं फलं मया देव स्थापितं पुरतस्तव ।

तेन मे सफलावाप्तिर्भवेज्जन्मनि जन्मनि ॥

ताम्बूल -

पूगीफलं महद्दिव्यं नागवल्लीदलैर्युतम् ।

एलादिचूर्णसंयुक्तं ताम्बूलं प्रतिगृह्यताम् ॥

ॐ भूर्भुवः स्वः गणपतये नमः, मुखवासार्थम्

एलालवंग पूगीफलसहितं ताम्बूलं समर्पयामि ।

( इलायची, लौंग- सुपारीके साथ ताम्बूल अर्पित करे । )

ganesh mantra 

ganesh mantra in hindi and sanskrit

दक्षिणा -

हिरण्यगर्भगर्भस्थम् हेमबीजं विभावसोः ।

अनन्तपुण्यफलदमतः शान्तिं प्रयच्छ मे ॥

ॐ भूर्भुवः स्वः गणपतये नमः, कृतायाः पूजायाः

सादगुण्यार्थे द्रव्यदक्षिणां समर्पयामि ।

आरती -

कदलीगर्भसम्भूतं कर्पूरं तु प्रदीपितम् ।

आरार्तिकमहं कुर्वे पश्य मे वरदो भव ॥

प्रदक्षिणा -

यानि कानि च पापानि जन्मान्तरकृतानि च ।

तानि सर्वाणि नश्यन्तु प्रदक्षिणपदे पदे ॥

विशेषार्ध्य-

रक्ष रक्ष गणाध्यक्ष रक्ष त्रैलोक्यरक्षक । भक्तानामभयं कर्ता त्राता भव भवार्णवात् ॥

द्वैमातुर कृपासिन्धो षाण्मातुराग्रज प्रभो । वरदस्त्वं वरं देहि वाञ्छितं वाञ्छितार्थदः ॥

अनेन सफलार्येण वरदोऽस्तु सदा मम ।

ॐ भूर्भुवः स्वः गणपतये नमः, विशेषार्घ्यं समर्पयामि ।

प्रार्थना - विघ्नेश्वराय वरदाय सुरप्रियाय लम्बोदराय सकलाय जगद्धिताय ।

नागाननाय श्रुतियज्ञविभूषिताय गौरीसुताय गणनाथ नमो नमस्ते ॥

भक्तार्तिनाशनपराय गणेश्वराय सर्वेश्वराय शुभदाय सुरेश्वराय ।

विद्याधराय विकटाय च वामनाय भक्तप्रसन्नवरदाय नमो नमस्ते ॥

नमस्ते ब्रह्मरूपाय विष्णुरूपाय ते नमः | नमस्ते रुद्ररूपाय करिरूपाय ते नमः ।

विश्वरूपस्वरूपाय नमस्ते ब्रह्मचारिणे | भक्तप्रियाय देवाय नमस्तुभ्यं विनायक ॥

त्वां विघ्नशत्रुदलनेति च सुन्दरेति | भक्तप्रियेति सुखदेति फलप्रदेति ।

विद्याप्रदेत्यघहरेति च ये स्तुवन्ति | तेभ्यो गणेश वरदो भव नित्यमेव ॥

गणेशपूजने कर्म यन्यूनमधिकं कृतम् ।

तेन सर्वेण सर्वात्मा प्रसन्नोऽस्तु सदा मम ॥

अनया पूजया श्रीगणपति: प्रीयताम्, न मम ।

Benifits of reading ganesh mantra

यह मंत्र ऐसे विनम्र जीवन को प्रेरित करता है, और जप से व्यक्ति को आंतरिक शांति और चेतना प्राप्त करने में मदद मिलती है।

Disclaimer:-

Hope you have liked this article of ours, you must have received the pronunciation of Shri Ganesh ji Mantra with Lyrics, and if you need some more information, you can contact us.

thank you